Total Pageviews

Sunday, 23 August 2026

॥ सप्तश्लोकी आदित्यस्तोत्रम् ॥




॥ १ ॥
सर्वदेवानां तेजस्त्वं, देवानां प्रतिनिधिः ।
भूतानां जीवनाधारं, भास्करं प्रणमाम्यहम् ॥

॥ २ ॥
सृजसि पासि पोषयसि, विश्वमेतच्चराचरम् ।
त्वया विना न जीवन्ति, प्राणिनो भुवि केचन ॥

॥ ३ ॥
द्वादशादित्यरूपेण, द्वादशधा प्रकाशसे ।
मित्रो रविश्च सूर्यश्च, भानुर्भास्कर एव च ॥

॥ ४ ॥
खगः पूषा हिरण्यगर्भो, मरीचिरादित्य एव च ।
सविता चार्कश्च, द्वादशैते नमोऽस्तु ते ॥

॥ ५ ॥
एतैः स्वरूपभेदैस्त्वं, विश्वं नित्यं प्रकाशसे ।
भक्त्या त्वां प्रणमाम्यद्य, कुरु मे सततं शुभम् ॥

॥ ६ ॥
संकटेषु जयं देहि, आयुरानन्दकीर्तिद ।
सार्वभौम महादेव, सिद्धिं देहि क्षणादपि ॥

॥ ७ ॥
विजयं च सुखं कीर्तिं, ददासि भक्तवत्सल ।
त्रिवारं प्रणमामि त्वां, भास्करं विश्वनायकम् ॥

॥ फलश्रुतिः ॥
सप्तश्लोकमिदं स्तोत्रं, तेजस्वी यः पठेन्नरः ।
एकविंशतिवारं तु, तस्य कार्याणि सिद्ध्यन्ति ॥

सर्वकार्येषु सिद्धिं च, सर्वमङ्गलमाप्नुयात् ।

।। ॐ सूर्यनारायणायेदमर्पणमस्तु ॥

रविवार, २३/८/२६ , १२:३० PM
अजय सरदेसाई -मेघ 

No comments:

Post a Comment